(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.11. अध्यायः 011
Mahabharata - Vana Parva - Chapter Topics
मैत्रेयचोदितेन विदुरेण धृतराष्ट्राय भीमकृतकिर्मीरवधप्रकारकथनम् ॥
Mahabharata - Vana Parva - Chapter Text

धृतराष्ट्र उवाच। 3-11-0x(1809)(16025)
किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम्।
रक्षसा भीमसेनस्य कथमासीत्समागमः ॥ 3-11-1(16026)
विदुर उवाच। 3-11-2x(1810)
शृणु भीमस्य कर्मेदमतिमानषकर्मणः।
श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ॥ 3-11-2(16027)
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः।
जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ॥ 3-11-3(16028)
रात्रौ निशीथे त्वाभीले गतेऽर्धसमये नृप।
प्रचारे पुरुषादानां रक्षसां घोरकर्मणाम् ॥ 3-11-4(16029)
तद्वनं तापसा नित्यमशेषा वनचारिणः।
दूरात्परिहरन्ति स्म पुरुषादभयात्किल ॥ 3-11-5(16030)
तेषां प्रविशतां तत्र मार्गमावृत्य भारत।
दीप्ताक्षं भीषणं रक्षः मोल्मुकं प्रत्यपद्यत ॥ 3-11-6(16031)
बाहू महान्तौ कृत्वा च तथास्यं च भयानकम्।
स्थितमावृत्यपन्थानं येन यान्ति कुरूद्वहाः ॥ 3-11-7(16032)
दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम्।
सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् ॥ 3-11-8(16033)
सृजन्तं राक्षसीं मायां महानादनिनादितम्।
मुञ्चन्तं विपुलान्नादान्सतोयमिव तोयदम् ॥ 3-11-9(16034)
तस्य नादेन संत्रस्ताः पक्षिणः सर्वतोदिशम्।
विमुक्तनादाः संपेतुः स्थलजा जलजैः सह ॥ 3-11-10(16035)
संप्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम्।
तद्वनं तस्य नादेन संप्रस्थितमिवाभवत् ॥ 3-11-11(16036)
तस्योरुवाताभिहतास्ताम्रपल्लवबाहवः।
विदूरजाताश्च लताः समाश्लिष्यन्ति पादपान् ॥ 3-11-12(16037)
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः।
रजसा संवृतं तेन नष्टर्क्षमभवन्नभः ॥ 3-11-13(16038)
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः।
पञ्चानामिन्द्रियाणां तु शोकावेश इवातुलः ॥ 3-11-14(16039)
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान्।
आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः ॥ 3-11-15(16040)
तं समासाद्य वित्रस्ता कृष्णा कमललोचना।
अदृष्टपूर्वं संत्रासान्न्यमीलयत लोचने ॥ 3-11-16(16041)
दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा।
पञ्चपर्वतमध्यस्था नदीवाकुलतां गता ॥ 3-11-17(16042)
विमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः।
इन्द्रियाणि प्रसक्तानि विषयेषु यथारतिम् ॥ 3-11-18(16043)
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम्।
रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः ॥ 3-11-19(16044)
पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान्।
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः ॥ 3-11-20(16045)
काममूर्तिधरः क्रूरः कालकल्पो व्यदृश्यत।
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः ॥ 3-11-21(16046)
को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम्।
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम् ॥ 3-11-22(16047)
अहं वकस्य वै भ्राता किर्मीर इति विश्रुतः।
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः ॥ 3-11-23(16048)
युधि निर्जित्य पुरुषानाहारं नित्यमाचरन्।
के यूयमभिसंप्राप्ता भक्ष्यभूता ममान्तिकम्।
युधि निर्जित्यवः सर्वान्भक्षयिष्ये गतज्वरः ॥ 3-11-24(16049)
विदुर उवाच। 3-11-25x(1811)
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः।
आचचक्षे ततः सर्वं गोत्रनामादि भारत ॥ 3-11-25(16050)
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः।
सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ॥ 3-11-26(16051)
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः।
वनमभ्यागतो घोरमिदं तव परिग्रहम् ॥ 3-11-27(16052)
`विस्मयं परमं गत्वा राक्षसो घोरदर्शनः।'
किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम।
उपपादितमद्येह चिरकालान्मनोरथम् ॥ 3-11-28(16053)
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः।
चरामि पृथिवीं कृत्स्नां नैनं चासादयाम्यहम् ॥ 3-11-29(16054)
सोयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम्।
अनेन हि मम भ्राता बको विनिहतः प्रियः ॥ 3-11-30(16055)
वैत्रकीयवने राजन्ब्राह्मणच्छद्मरूपिणा।
विद्याबलमुपाश्रित्य न ह्मस्त्यस्यौरसं बलम् ॥ 3-11-31(16056)
हिडिम्बश्च सखा मह्मं दयितो वनगोचरः।
हतो दुरात्मनाऽनेन स्वसा चास्य हृता पुरा ॥ 3-11-32(16057)
सोयमभ्यागतो मूढो ममेदं गहनं वनम्।
प्रचारसमयेऽस्माकमर्द्धरात्रे स्थिते समे ॥ 3-11-33(16058)
अद्यास्य यातयिष्यामि तद्वैरं चिरसंभृतम्।
तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ॥ 3-11-34(16059)
अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च।
शान्तिं लब्धास्मि परमां हत्वा राक्षसकण्टकम् ॥ 3-11-35(16060)
यदि तेन पुरा मुक्तो भीमसेनो बकेन वै।
अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ॥ 3-11-36(16061)
एनं हि विपुलप्राणमद्य हत्वा वृकोदरम्।
संभक्ष्य जरयिष्यामि यथाऽगस्त्यो महासुरम् ॥ 3-11-37(16062)
एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः।
नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ॥ 3-11-38(16063)
ततो भीमो महाबाहुरारुज्यतरसा द्रुमम्।
दशव्याममथोद्विद्धं निष्पत्रमकरोत्तदा ॥ 3-11-39(16064)
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम्।
निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ॥ 3-11-40(16065)
निवार्य भीमो जिष्णुं तं तद्रक्षो मेघनिःस्वनम्।
अभिद्रुत्याब्रवीद्वाक्यं तिष्ठतिष्ठेति भारत ॥ 3-11-41(16066)
इत्युक्त्वैनमतिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः।
निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटो बली।
तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ॥ 3-11-42(16067)
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि।
पातयामास वेगेन कुलिशं मघवानिव ॥ 3-11-43(16068)
असंभ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत।
चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ॥ 3-11-44(16069)
तदुदस्तमलातं तु भीमः प्रहरतां वरः।
पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ॥ 3-11-45(16070)
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्।
दण्डपाणिरिव क्रुद्धः समरे प्रत्यधावत ॥ 3-11-46(16071)
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्।
वालिसुग्रीवयोर्भ्रात्रोर्यथा स्त्रीकाङ्क्षिणोः पुरा ॥ 3-11-47(16072)
शीर्षयोः पतिता वृक्षा विभिदुर्नैकधा तयोः।
यथैवोत्पलपत्राणि मत्तयोर्द्विपयोस्तथा ॥ 3-11-48(16073)
मूर्ध्निजर्झरभूतास्तु बहवस्तत्र पादपाः।
चीराणीव व्युदस्तानि रेजुस्तत्र महावने ॥ 3-11-49(16074)
तद्वृक्षयुद्धमभवन्महूर्तं भरतर्षभ।
राक्षसानां च मुख्यस्य नराणामुत्तमस्य च ॥ 3-11-50(16075)
ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः।
प्राहिणोद्रासः क्रुद्धो भीमसेनश्चचाल ह ॥ 3-11-51(16076)
तं शिलाताडनजडं पर्यधावत राक्षसः।
बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ॥ 3-11-52(16077)
तावन्योन्यं समाश्लिश्य प्रकर्षन्तौ परस्परम्।
उभावपि चकाशेते प्रवृद्धौ वृषभाविव ॥ 3-11-53(16078)
तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः।
नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ॥ 3-11-54(16079)
दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः।
कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ॥ 3-11-55(16080)
अभिहत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः।
मातङ्गमिव मातङ्गः प्रभिननकरटामुखम् ॥ 3-11-56(16081)
स चाप्येनं ततो रक्षः प्रतिजग्राह वीर्यबान्।
तमाक्षिपद्भीमसेनो बलेन बलिनां वरः ॥ 3-11-57(16082)
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा।
शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ॥ 3-11-58(16083)
अथैनमाक्षिप्य बलाद्गृद्य मध्ये वृकोदरः।
धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ॥ 3-11-59(16084)
स भीमेन परामृष्टो दुर्बलो बलिनां रणे।
व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् ॥ 3-11-60(16085)
तत एनं परिश्रान्तमुपलक्ष्य वृकोदरः।
योक्रयामास बाहुभ्यां पशुं रशनया यथा ॥ 3-11-61(16086)
विनदन्तं महानादं भिन्नभिरीस्वनं बली।
भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ॥ 3-11-62(16087)
तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः।
प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् । 3-11-63(16088)
आक्रम्य च कटीदेशे जानुना राक्षसाधमम्।
पीडयामास पाणिभ्यां तस्य कण्ठंवृकोदरः ॥ 3-11-64(16089)
अथ जर्जरसर्वाङ्गं व्यावृत्तनयनोल्बणम्।
भूतले भ्रामयामास वाक्यं चेदमुवाच ह ॥ 3-11-65(16090)
हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम्।
करिष्यसि गतश्चापि यमस्य सदनं प्रति ॥ 3-11-66(16091)
इत्येवमुक्त्वा पुरुषप्रवीर-
स्तं राक्षसं क्रोधपरीतचेताः।
विस्रस्तवस्त्राभरणं स्फुरन्त-
मुद्धान्तचित्तं व्यसुमुत्ससर्ज ॥ 3-11-67(16092)
तस्मिन्हते तोयदतुल्यरूपे
कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः।
भीमं प्रशस्याथ गुणैरनेकै-
र्हृष्टास्ततो द्वैतवनाय जग्मुः ॥ 3-11-68(16093)
विदुर उवाच। 3-11-69x(1812)
एवं विनिहतः सङ्ख्ये किर्मोरो मनुजाधिप।
भीमेन वचनात्तस् धर्मराजस्य कौरव ॥ 3-11-69(16094)
ततो निष्कष्टकं कृत्वा वनं तदयराजितः।
द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह ॥ 3-11-70(16095)
समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः।
प्रहृष्टमनसः प्रीत्या प्रसशंसुर्वृकोदरम् ॥ 3-11-71(16096)
भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः।
विविशुस्ते वनं वीराः क्षेमं निहतकण्टकम् ॥ 3-11-72(16097)
स मया गच्छता मार्गे विनिकीर्णो भयावहः।
वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः ॥ 3-11-73(16098)
तत्राश्रौषमहं चैतत्कर्म भीमस् भारत।
ब्राह्मणानां कथयतां ये तत्रासन्समागताः ॥ 3-11-74(16099)
वैशम्पायन उवाच। 3-11-75x(1813)
3-11-75(16100)
एवं विनिहतं सङ्ख्ये किर्मीरं रक्षसां वरम्।
श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-11-4 आभिले भयंकरे। अर्द्धसमयेऽर्द्धज्ञाने गतेसति। लोके तन्द्रावति सतीत्यर्थः ॥ 3-11-9 भयानके इतिविश्वः ॥ 3-11-31 दैत्रकीयवने एकचक्रायाम् ॥ 3-11-32 महां मम ॥ 3-11-35 लब्धास्मि लप्स्यामि ॥ 3-11-37 महासुरं वातापिम् ॥ 3-11-39 आरुज्यभङ्त्वा। दशव्यामं विस्तारितयोः करयोस्तिर्यगन्तरम्। उद्विद्धं उत्पाटितम् ॥ 3-11-40 वज्रेण निष्पेषश्चूर्णीभावो यस्य पर्वतस्य तद्वत् गौरवं गुरुत्वं यस्य तत्तथा । 3-11-42 कक्ष्यामुत्पीड्य परिधानवस्त्रं दृढीकृत्य ॥ 3-11-45 उदस्तं उत्क्षिप्तम्। अलातं उल्मुकम्। रक्षः राक्षसम् ॥ 3-11-49 चीराणि वृक्षद ल्कलानि ॥ 3-11-55 निकारात् परिभवात्। कृष्णाया आनय दृष्टं येन स तथा। द्रौपद्याकर्षणेन कुपित इत्यर्थः ॥ 3-11-56 प्रभिन्नकटामुखं प्रभिन्ने व्यक्तीभूते करटयोर्गण्डयोर्मुखे मदनिर्गममार्गौ यस्य तम् ॥ 3-11-60 व्यस्पनदत किंचिच्चलनं कृतवान् ॥ 3-11-61 योक्रयामास बबन्ध। रशनया पशुमिव ॥ 3-11-63 पशुमारं पशुमिव मारयित्वा ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.